(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.229. अध्यायः 229
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति स्कन्दचरित्रप्रतिपादनम् ॥ 1 ॥ इन्द्रेण स्कन्दस्य देवसैनापत्येऽभिषेचनम् ॥ 2 ॥ स्कन्देनेन्द्रप्रार्थनया देवसेनाया उद्वहनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-229-0x(2548)(24893)
ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत्।
काकी च हलिमा चैव माता चाथ हली तथा।
आर्या बाला च धात्री च सप्तैता शिशुमातरः ॥ 3-229-1(24894)
एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः।
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥ 3-229-2(24895)
एष वीरोऽष्टमः प्रोक्तः स्कन्दो मातृगणोद्भवः।
छागवक्रेण सहितो नवमः परिकीर्त्यते ॥ 3-229-3(24896)
षष्ठं छागमयं वक्रं स्कन्दस्यैवेति विद्धि तम्।
षट्शिरोभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥ 3-229-4(24897)
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते।
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥ 3-229-5(24898)
इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्।
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ 3-229-6(24899)
उपविष्टं तु तं स्कन्दमामुक्तकवचस्रजम्।
हिरण्यचूडमुकुटं हिरण्यांक्षं महाप्रभम् ॥ 3-229-7(24900)
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्।
सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् ॥ 3-229-8(24901)
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्।
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥ 3-229-9(24902)
श्रिया जुष्टः पृथुयशाः स कुमारो वरस्तदा।
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ 3-229-10(24903)
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ॥ 3-229-11(24904)
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥ 3-229-12(24905)
हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव।
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥ 3-229-13(24906)
अभयंच पुनर्दत्तं त्वयैवैषां सुरोत्तम।
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः ॥ 3-229-14(24907)
स्कन्द उवाच। 3-229-15x(2549)
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः।
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥ 3-229-15(24908)
ऋषय ऊचुः। 3-229-16x(2550)
इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम्।
तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः ॥ 3-229-16(24909)
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति।
अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥ 3-229-17(24910)
असूर्ये च भवेत्सूर्यस्तथाऽचनद्रे च चन्द्रमाः।
भवत्यग्निश्च वायुश्च पृथिव्यापश्च स्वं तथा ॥ 3-229-18(24911)
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्।
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व न ॥ 3-229-19(24912)
शक्र उवाच। 3-229-20x(2551)
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः।
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥ 3-229-20(24913)
स्कन्द उवाच। 3-229-21x(2552)
शाधि त्वमेव त्रैलोक्यमव्याग्रे निजये रतः।
अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् ॥ 3-229-21(24914)
शक्र उवाच। 3-229-22x(2553)
बलंतवाद्भुतं वीर त्वं देवानामरीञ्जहि।
अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः ॥ 3-229-22(24915)
इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम्।
`त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम' ॥ 3-229-23(24916)
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः।
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ॥ 3-229-24(24917)
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा।
विग्रहः संप्रवर्तेत भूतभेदान्महाबल ॥ 3-229-25(24918)
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि।
तस्मादिन्द्रो भवानेव भविता मा विचारय ॥ 3-229-26(24919)
स्कन्द उवाच। 3-229-27x(2554)
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च।
करोमि किं च तेशक्र शासनात्तद्ब्रवीहि मे ॥ 3-229-27(24920)
इन्द्र उवाच। 3-229-28x(2555)
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल।
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥ 3-229-28(24921)
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु।
अभिषिच्यस्व देवानां सैनापत्ये महाबल ॥ 3-229-29(24922)
स्कन्द उवाच। 3-229-30x(2556)
दानवानां विनाशाय देवानामर्थसिद्धये।
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम् ॥ 3-229-30(24923)
मार्कण्डेय उवाच। 3-229-31x(2557)
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह।
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥ 3-229-31(24924)
तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत।
तथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥ 3-229-32(24925)
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी।
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥ 3-229-33(24926)
आगम्य मनुजव्याघ्र सह देव्या परंतप।
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥ 3-229-34(24927)
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः।
`कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः' ॥ 3-229-35(24928)
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत्।
पावकस्येनद्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥ 3-229-36(24929)
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वेदिवौकसः।
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम् ॥ 3-229-37(24930)
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः।
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥ 3-229-38(24931)
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा।
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥ 3-229-39(24932)
अरजे वाससी रक्ते वसानः पावकात्मजः।
भाति दीप्तवपुः श्रमान्रक्ताभ्राभ्यामिवांशुमान् ॥ 3-229-40(24933)
कुक्कुटश्चाग्निना दत्तस्तस् केतुरलंकृतः।
रथे समुच्छितो भाति कालाग्निरव लोहितः ॥ 3-229-41(24934)
या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा।
अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी ॥ 3-229-42(24935)
विवेश कवचं चास्य शरीरं सहजं तथा।
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥ 3-229-43(24936)
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः।
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ॥ 3-229-44(24937)
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्।
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥ 3-229-45(24938)
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः।
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥ 3-229-46(24939)
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि।
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥ 3-229-47(24940)
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलंकृतः।
[सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा।]
क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः ॥ 3-229-48(24941)
अभिषिक्तं महासेनमपश्यन्त दिवौकसः।
विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा ॥ 3-229-49(24942)
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः।
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः ॥ 3-229-50(24943)
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः।
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि ॥ 3-229-51(24944)
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा।
सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥ 3-229-52(24945)
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्।
संचिन्त्य त्वानयामास देवसेनां ह्यलंकृताम् ॥ 3-229-53(24946)
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम।
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा ॥ 3-229-54(24947)
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम्।
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा ॥ 3-229-55(24948)
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि।
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च ॥ 3-229-56(24949)
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः।
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम् ॥ 3-229-57(24950)
सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम्।
`इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते' ॥ 3-229-58(24951)
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया।
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥ 3-229-59(24952)
श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता।
षष्ठ्यां कृतार्थोऽभूद्यस्थात्तस्मात्षष्ठी महातिधिः ॥ 3-229-60(24953)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनत्रिंशदधिद्विशततमोऽध्यायः ॥ 229 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-229-27 शसनं तद्द्रवीहि इति झ. पाठः ॥ 3-229-35 रुद्रमग्निमिति। रुद्रो वा एष यदग्निरित श्रुतिविदो द्विजाः प्राहुः ॥ 3-229-38 अनुप्रविश्य स्थितेनेति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.